प्रोक्तग्रहणम् अनुवर्तते। छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाण्येव भवन्ति। अध्येतृवेदितृरत्ययविषयाणि। अनन्यभावो विषयार्थः। तेन स्वातन्त्र्यम् उपाध्यान्तरयोगो वक्यं च निवर्तते। कठेन प्रोक्तम् अधीयते कठाः। मौदाः। पैप्पलादाः। आर्चाभिनः। वाजसनेयिनः। ब्राहमणानि खल्वपि ताण्डिनः। भाल्ल्लविनः। शाट्यायनिनः। ऐतरेयिणः। ब्राह्मणग्रहणं किं, यावता छन्द एव तद्? ब्राह्मणविशेषप्रतिपत्त्यर्थम्। इह तद्विषयता मा भूत्, याज्ञवल्क्येन प्रोक्तानि ब्राह्मन्णानि याज्ञवल्क्यानि। सौलभानि। चकारो ऽनुक्तसमुच्चयार्थः। कल्पे काश्यपिनः। कौशिकिनः। सूत्रे पाराशरिणो भिक्षवः। शैलालिनो नटाः। कर्मन्दिनः। कृशाश्विनः। छन्दोब्राह्मणानि इति किम्? पाणिनीयं व्याकरणम्। पैङ्गी कल्पः।
"प्रोक्तग्रहणमनुवत्र्तते" इति। तच्चेहार्थात् प्रथमान्तं विज्ञायते छन्दोब्राआहृणानीत्यस्य समानाधिकरणार्थम्, अत आह-- छन्दांसि ब्राआहृणानि च प्रोक्तप्रत्ययान्तानीति भवन्ति" (इति)। स्वरूपग्रहणमिह न भवति। तथा हि -- प्रोक्तग्रहणमिहानुवत्र्तते, न च च्छन्दोब्राआहृणशब्दौ प्रोक्तप्रत्ययान्तौ। तस्माच्छन्दोब्राआहृणवाचिनो ये शब्दाः प्रोक्तप्रत्ययान्तास्ते गृह्रन्ते।
किमर्थं पुनरिदमुच्यते? इह प्रोक्तप्रत्ययान्तस्य बहुप्रकारता लभ्यते। तथा हि क्वचित् तदन्तस्य स्वातन्त्र्यमुपलभ्यते, यता-- पाणिनिना प्रोक्तं पाणिनीयं शास्त्रम्। प्रोक्तार्थ एव वृत्तिः स्वातन्त्र्यम्। पाणिनीय शब्दस्य चात्र प्रोक्तार्थ एव वृत्तिः। क्वचिदुपाध्यन्तयोगः, यथा--- पाणिनीयं महत् भवत्सु विहितमिति। क्वचिद्वाक्यम्-- पाणिनीयमधीत इति। क्वचिद्()वृत्तिः। पाणिनीय इति। तदिह छन्दोब्राआहृणानामध्येतृवेदितृविषया वृत्तिर्यथा स्यात्। प्रकारान्तरं मा भूदित्येवमर्थमिदमुच्यते। "अध्येतृवेदितृ" इति। अध्येतृवेदितृप्रत्ययो विषयेषामिति बहुव्रीहिः। "{अनन्यभावो--काशिका, पदमञ्जरी च} अन्यत्रभावो विषयार्थः" इति। यथा मत्स्यानां जलं विषय इत्यत्रानन्यत्रभावे विषयशब्दो वत्र्तते, तथेहापि। एतेन यद्यपि ग्रामसमुदायादिष्वर्थेषु विषयशब्दस्य वृत्तिः, तथापीहानन्यत्रभावे वत्र्तमानः संगृह्रत इति दर्शयति। "तेन"इत्यादिना अनन्यत्रभाववृत्तिशब्दस्य फलं दर्शयति। एवं ह्रत्रन्यत्राभावो भवति यदि स्वातन्त्र्यादि न भवति। उपाध्यन्तरयोगो महत्त्वादिना विशेषेण सम्बद्धः कठ इति। "कठेन प्रोक्तम्" इति। "कलापि()औशभ्यायनान्तवासिभ्यश्च"
४।३।१०४ इति णिनिः, तस्य "कठचरकाल्लुक्"
४।३।१०७, ततः कठेन प्रोक्तमधीते तद्वेदेति
४।२।५८ पुनरण्, तस्यापि "प्रोक्ताल्लुक्"
४।२।६३ इति लुक्। "मौदाः, पैप्पलादाः" इति। "कलापिवैशम्पायनान्तेवासिभ्यश्च"
४।३।१०४ इति णिनिः-मोदेन प्रोक्तमिति, "कलापिनोऽण्"
४।३।१०८ इत्यण्, तदन्तात् "तदधीते तद्वेद"
४।२।५८ इत्यण्, तस्य "प्रोक्ताल्लुक्"
४।२।६३ इति लुक्। "आचार्भिनः" इति। ऋचाभेन प्रोक्तमिति "कलापिवैशम्यायनान्तेवासिभ्यश्च"
४।३।१०४ इति णिनिः, तदन्तात् "तदधीते तद्वेद"
४।२।५८ इत्यण्। "वाजसनेयिनः" इति। वाजसनेयेन प्रोक्तमिति। "शौनकादिभ्यश्छन्दसि"
४।३।१०६ इति णिनिः, तदन्तात् "तदधीते तद्वेद"
४।२।५८ इत्यण्, तस्य लुक्। "ताण्डिनः" इति। ताण्ड्यशब्दाद्()गर्गादि
४।१।१०५ यञन्तात् प्रोक्तार्थे "पुराणप्रोक्तेषु ब्राआहृणकल्पेषु"
४।३।१०५ इति णिनिः, "आपत्यस्य च तद्धितेऽनाति"
६।४।१५१ इतियलोपः। ततः "तदधीते तद्वेद"
४।२।५८ इत्यण्, तस्य लुक्। "भाल्लविनः" इति। भाल्लविशब्दादिढन्तात् प्रोक्तार्थे पूर्ववण्णिनिः,तदन्तात् तद्वेद
४।२।५८ इत्यण्, तस्य लुक्। शाट()आयनिनः" इति। शाट()शब्दाद्()गर्गादि
४।१।१०५ यञन्तात् "यञिञोश्च"
४।१।१०१ इति फक्,ततः प्रोक्तार्थे पूर्ववण्णिनिः, तदन्तात् "तदधीते तद्वेद"
४।२।५८ इत्यण्, तस्य लुक्। "ऐतरेयिणः" इति।ऐतरेयशब्दाच्लुभ्रादिढगन्तात्
४।१।१२३ पूर्ववण्णिनिः, ततः "तदधीते"
४।२।५८ इत्यण्, तस्यु लुक्।
"ब्राआहृणविशेषप्रतिपत्त्यर्थम्" इति। ब्राआहृणविशेषः पुराणप्रोक्तत्वम्। तस्य प्रतीतिः = प्रतिपत्तिर्यथा स्यादित्येवमर्थं ब्राआहृणग्रहणम्। "याज्ञवल्क्यानि" इति। याज्ञवल्क्यशब्दाद्गर्गादि
४।१।१०५ यञन्तात् प्रोक्तार्थे "कण्वादिभ्यो गोत्रे"
४।२।११० इत्यण्। "सौलभनि" इति सुलभेन प्रोक्तानीति। पूर्ववत् "कलापिनोऽण्"
४।३।१०८ इत्यण्। अत्र स्वातन्त्र्यं भवति। न हीह पुराणप्रोक्तत्वमस्ति; इदानीन्तेन प्रोक्तत्वात्। "काश्यपिनऋः, कौशिकिनः"इति। कश्यपेन प्रोक्तः कल्पः, कौशिकेन प्रोक्कत इति। " काश्यपकौशिकाभ्यामृषिभ्यां णिनिः"
४।३।१०३, तदन्तात् "तदधीते"
४।२।५८ इत्यण्, तस्य लुक्। "पारशरिणः, शैलालिनः" इति। पाराशर्येण प्रोक्तं सूत्रम्, शिलालिना प्रोक्तं सूत्रम्-- "पारशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः"
४।२।५८ इत्यण्, तस्य लुक्। "कर्मन्दिनः, कृशा()इआनः" इति। कर्मन्देन प्रोक्तं सूत्रम्, कृशा()ओन प्रोक्तं सूत्रमिति "कर्मन्दकृशा()आआदिनिः"
४।३।१११ तदन्तात् "तदधीते तद्वेद"
४।२।५८ इत्यण्, तस्य लुक्।
"पैङ्गी कल्पः"इति। पिङ्गेन प्रोक्तः कल्पः-- "पुराणप्रोक्त"
४।३।१०५ इत्यादिना णिनिः। तत्र स्वातन्त्र्यमेव भवति, न च तद्विषयता॥